MID TERM SANSKRIT VIITH CLASS PRACTICE PAPER

शिक्षा-निदेशालयः राष्ट्रिय-राजधानी-क्षेत्रम्, देहली-सर्वकारः
मध्यावधिः-अभ्यासप्रश्नपत्रम् – 2025-26
कक्षा — सप्तमी संस्कृतम्

पूर्णाङ्कः – 60
समयः – 2.30 घण्टाः

सामान्य-निर्देशाः
सर्वे प्रश्नाः अनिवार्याः।
उत्तराणि संस्कृतेनैव लेखनीयानि।
प्रश्नानाम् उत्तराणि खण्डानुसारं क्रमेणैव लेखनीयानि।
प्रश्नसंख्या अवश्यमेव लेखनीया।
प्रश्नपत्रे चत्वारः खण्डाः सन्ति।

  • खण्ड ‘क’ – अपठित-अवबोधनम् – 8 अंकाः

  • खण्ड ‘ख’ – रचनात्मक-कार्यम् – 12 अंकाः

  • खण्ड ‘ग’ – अनुप्रयुक्त-व्याकरणम् – 18 अंकाः

  • खण्ड ‘घ’ – पठित-अवबोधनम् – 22 अंकाः


खण्ड-क
अपठितांश-अवबोधनम् (8 अङ्काः)

प्र.1 अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत-

मम बालकः आशुतोषः प्रतिदिनं प्रातःकाले उत्थाय प्रार्थनां करोति। सः स्नानं कृत्वा स्वच्छं वस्त्रं धरति। मातरं नत्वा सः प्रातराशं करोति। ततः पाठ्यपुस्तकानि गृहीत्वा पाठशालां गच्छति। मार्गे सः मित्रैः सह हर्षेण गच्छति। पाठशालायां गुरोः उपदेशं श्रद्धया शृणोति। सः तत्र गणितं, संस्कृतं, विज्ञानं, सामाजिक-विज्ञानं च पठति। मध्याह्ने सः भोजनं कृत्वा क्रीडति । सायं गृहं गत्वा विश्रामं करोति। गृहकार्यं सम्यक् करोति। रात्रौ भोजनं कृत्वा ग्रन्थं पठति। ततः शयनाय गच्छति। स नियमितं जीवनं यापयति।

(अ) एकपदेन उत्तरत – (केवलं प्रश्नत्रयम्) 3×1=3

i.) बालकः कदा उत्थाय प्रार्थनां करोति?
उत्तरम्: प्रातःकाले

ii.) बालकः कस्य उपदेशं शृणोति?
उत्तरम्: गुरोः

iii.) सः भोजनं कृत्वा किं करोति?
उत्तरम्: क्रीडति

iv.) सः कदा विश्रामं करोति?
उत्तरम्: सायं

(आ) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नमेकम्) 1×2=2

i.) बालकः कानि गृहीत्वा पाठशालां गच्छति?
उत्तरम्: बालकः पाठ्यपुस्तकानि गृहीत्वा पाठशालां गच्छति।

ii.) बालकः पाठशालायां किं किं पठति?
उत्तरम्: बालकः पाठशालायां गणितं, संस्कृतं, विज्ञानं, सामाजिक-विज्ञानं च पठति।

(इ) यथानिर्देशम् उत्तरत – (केवलं प्रश्नद्वयम्) 2×1=2

i.) ‘बालकः प्रातःकाले प्रार्थनां करोति’ अस्मिन् वाक्ये किं क्रियापदं प्रयुक्तम्?
क) भवति ख) उत्थति ग) खादति घ) करोति
उत्तरम्: घ) करोति

ii.) ‘बालकः आशुतोषः’ अनयोः किम् विशेष्यपदम् अस्ति?
क) बालकः ख) आशुतोषः ग) उभयोः घ) न किमपि
उत्तरम्: क) बालकः

iii.) ‘विद्यालये’ इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
(क) पाठशालायां (ख) गुरोः (ग) शृणोति (घ) श्रद्धया
उत्तरम्: (क) पाठशालायां

(ई) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत । 1×1=1
उत्तरम्: आदर्शबालकः / आशुतोषस्य दिनचर्या


खण्डः–ख : रचनात्मकं कार्यम् (12 अङ्काः)

प्र. 2 चित्रं दृष्ट्वा मञ्जूषायाः सहायतया पदानि चित्वा चत्वारि वाक्यानि लिखत – 4×2=8

मञ्जूषा
धावकाः, बालकाः, बालिकाः, क्रीडाङ्गणम्, विद्यालये, प्रतियोगिता, प्रतिभागं, कुर्वन्ति, धावन्ति, प्रथमः, द्वितीयः, सात्वना, पुरस्कारः, तृतीयः, प्राप्नुवन्ति, प्राप्नोति, शिक्षकाः, प्रधानाचार्यः, शिक्षिकाः, धावनपथे, प्रसन्नाः

उत्तरम्:
i.) क्रीडाङ्गणे बालकाः बालिकाः च धावन्ति।
ii.) ते सर्वे प्रतियोगितायां प्रतिभागं कुर्वन्ति।
iii.) केचन धावनपथे धावन्ति।
iv.) धावकाः अतीव प्रसन्नाः सन्ति।

अथवा

‘मम विद्यालयः’ विषयम् अधिकृत्य चत्वारि वाक्यानि लिखत ।

उत्तरम्:
i.) मम विद्यालयस्य नाम सरस्वती विद्यालयः अस्ति।
ii.) अयं विद्यालयः अति विशालः सुन्दरः च अस्ति।
iii.) अस्मिन् विद्यालये बहवः छात्राः पठन्ति।
iv.) अत्र अनेके योग्याः शिक्षकाः शिक्षिकाः च सन्ति।

प्र.3 पदानां मेलनं कृत्वा वाक्य रचनां कुरुत- 4×1=4

(i) पिकःगुरुंददाति
(ii) वृक्षेउद्यानेनमति
(iii) वैद्याचटकाकूजति
(iv) छात्रःओषधिंविहरति

उत्तरम्:
i.) पिकः कूजति।
ii.) वृक्षे चटका विहरति।
iii.) वैद्या ओषधिं ददाति।
iv.) छात्रः गुरुं नमति।


खण्ड-ग
अनुप्रयुक्त-व्याकरणम् (18 अङ्काः)

प्र.4 अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत (केवलं प्रश्नत्रयम्) 3×1=3

i.) मम गृहम् अभितः देव + आलयः ………….. अस्ति।
उत्तरम्: देवालयः

ii.) अहं विद्यालयं ……..+………….. गच्छामि।
उत्तरम्: विद्या + आलयम्

iii.) मम मित्रं पुस्तक + आलये ………….. पत्रिकां पठति।
उत्तरम्: पुस्तकालयः

iv.) विद्या + अर्थी ………….. विद्याध्ययने श्रमः करोति।
उत्तरम्: विद्यार्थी

प्र. 5 अधोलिखितं प्रकृतिप्रत्ययं संयुज्य वियुज्य वा पदानि सृजत (केवलं प्रश्नत्रयम्) 4×1=4

i.) प्र + सारः =
उत्तरम्: प्रसारः

ii.) आगच्छति +
उत्तरम्: आ + गम् + लट्

iii.) उपकारः +
उत्तरम्: उप + कृ + घञ्

iv.) प्र+विशति
उत्तरम्: प्र + विश् + लट्

v.) सम् चारः
उत्तरम्: सञ्चारः

प्र.6 उचितक्रियापदेन रिक्तस्थानानि पूरयत (केवलं प्रश्नत्रयम्) 4×1=4

i.) अहम् विद्यालयं ……..(गच्छ+लट्) …………..।
उत्तरम्: गच्छामि

ii.) पुत्री मोदकं ……..(खाद्+लट्) …………..।
उत्तरम्: खादति

iii.) पात्रं रिक्तम् ……..(अस्+लट्) …………..।
उत्तरम्: अस्ति

iv.) छात्राः विद्यालयं ……..(गच्छ+लट्) …………..।
उत्तरम्: गच्छन्ति

प्र. 7 अङ्कानां कृते मञ्जूषातः चित्वा उचितं पदं पूरयत- (केवलं प्रश्नचतुष्टयम्) 4×1=4

i.) 39 एकोनचत्वारिंशत्/ त्रिंनवतिः
उत्तरम्: एकोनचत्वारिंशत्

ii.) 20 पञ्चविंशतिः/ विंशतिः
उत्तरम्: विंशतिः

iii.) 46 षड्चत्वारिंशत् / चतुष्षष्टिः
उत्तरम्: षड्चत्वारिंशत्

iv.) 13 एकत्रिंशत् / त्रयोदश
उत्तरम्: त्रयोदश

v.) 19 एकनवतिः/ एकोनविंशतिः
उत्तरम्: एकोनविंशतिः

प्र.8 उचितशब्दरूपाणि चित्वा रिक्तस्थानानि पूरयत- (केवलं प्रश्नत्रयम्) 3×1=3

i.) रमेशः ………….. गच्छति। (देवालयः/ देवालयं / देवालयेन)
उत्तरम्: देवालयं

ii.) बालिका ………….. पत्रं लिखति। (हस्तं/ हस्तेन/ हस्तः)
उत्तरम्: हस्तेन

iii.) सत्येन धार्यते …………..। पृथिवी/ पृथिव्याः/ पृथिवीं
उत्तरम्: पृथिवी


खण्ड-घ
पठित-अवबोधनम् (22 अंकाः)

प्र.9 अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत- 5

एकदा श्रीकण्ठः मित्रेण सह प्रातः नववादने तस्य गृहम् अगच्छत्। तत्र कृष्णमूर्तिः तस्य माता पिता च स्वशक्त्या श्रीकण्ठस्य आतिथ्यम् अकुर्वन् । एतत् दृष्ट्वा श्रीकण्ठः अकथयत्- ” मित्र ! अहं भवतां सत्कारेण सन्तुष्टोऽस्मि । केवलम् इदमेव मम दुःखं यत् तव गृहे एकोऽपि भृत्यः नास्ति । मम सत्काराय भवतां बहु कष्टं जातम्। मम गृहे तु बहवः कर्मकराः सन्ति।” तदा कृष्णमूर्तिः अवदत् -” मित्र ! ममापि अष्टौ कर्मकराः सन्ति। ते च द्वौ पादौ द्वौ हस्तौ द्वे नेत्रे, द्वे श्रोत्रे इति । एते प्रतिक्षणं मम सहायकाः ।

(अ) एकपदेन उत्तरत – (केवलं प्रश्नमेकम्) 1×1

i.) श्रीकण्ठः मित्रेण सह प्रातः कति वादने तस्य गृहम् अगच्छत्?
उत्तरम्: नववादने

ii.) कृष्णमूर्तेः गृहे कियत् कर्मकराः सन्ति?
उत्तरम्: अष्टौ

(ब) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नमेकम्) 1×2 = 2

i.) श्रीकण्ठस्य आतिथ्यं के अकुर्वन् ?
उत्तरम्: कृष्णमूर्तेः माता पिता च श्रीकण्ठस्य आतिथ्यं अकुर्वन्।

ii.) श्रीकण्ठस्य दुःखं किम् आसीत्?
उत्तरम्: श्रीकण्ठस्य दुःखम् आसीत् यत् कृष्णमूर्तेः गृहे एकोऽपि भृत्यः नास्ति।

(स) यथानिर्देशम् उत्तरत- (केवलं प्रश्नद्वयम्) 2×1=2

i) ‘बहवः कर्मकराः’ अनयोः पदयोः किं विशेष्यपदम् अस्ति?
क) बहवः ख) कर्मकराः ग) उभयोः घ) न किमपि
उत्तरम्: ख) कर्मकराः

ii) ‘चरणौ’ पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
क) नेत्रौ ख) कमलौ ग) पादौ घ) न किमपि
उत्तरम्: ग) पादौ

iii) ‘एतत् दृष्ट्वा श्रीकण्ठः अकथयत्’ अत्र किं क्रियापदम्?
क) एतत् ख) श्रीकण्ठः ग) अकथयत् घ) श्रीः
उत्तरम्: ग) अकथयत्

प्र.10 अधोलिखितं पद्यांशं पठित्वा प्रश्नान् उत्तरत- 5

सत्येन धार्यते पृथ्वी सत्येन तपते रविः ।
सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ॥

(अ) एकपदेन उत्तरत- (केवलं प्रश्नमेकम्) 1×1

i.) केन रविः तपति?
उत्तरम्: सत्येन

ii.) वायुः केन वाति?
उत्तरम्: सत्येन

(आ) पूर्णवाक्येन उत्तरत– (केवलं प्रश्नमेकम्) 1×2 = 2

i.) पृथिवी केन धार्यते?
उत्तरम्: पृथिवी सत्येन धार्यते।

ii.) सर्वं कुत्र प्रतिष्ठितम् अस्ति?
उत्तरम्: सर्वं सत्ये प्रतिष्ठितम् अस्ति।

(स) यथानिर्देशम् उत्तरत- (केवलं प्रश्नद्वयम्) 2×1=2

i.) “सर्वं सत्ये प्रतिष्ठितम्” – अत्र ‘सर्वं’ पदस्य कोऽर्थः?
क) पृथ्वी ख) केवलं रविः ग) सम्पूर्ण जगत् घ) वायुः एव
उत्तरम्: ग) सम्पूर्ण जगत्

ii.) “सत्येन तपते रविः” – अत्र ‘सूर्यः’ पदस्य पर्यायपदं किम्?
क) तपते ख) प्रवहति ग) सत्येन घ) रविः
उत्तरम्: घ) रविः

iii.) “सत्येन धार्यते पृथ्वी” – अत्र क्रियापदं किम्?
क) पचति ख) पृथिवी ग) सत्येन घ) धार्यते
उत्तरम्: घ) धार्यते

प्र.11 अधोलिखितं संवादं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत- 5

(माता मेना– पुत्री– पार्वती)

माता मेना- वत्से! मनीषिताः देवताः गृहे एव सन्ति । तपः कठिनं भवति । तव शरीरं सुकोमलं वर्तते। गृहे एव वस। अत्रैव तवाभिलाषः सफलः भविष्यति।
पार्वती- अम्ब! तादृशः अभिलाषः तु तपसा एव पूर्णः भविष्यति। अन्यथा तादृशं पतिं कथं प्राप्स्यामि। अहं तपः एव चरिष्यामि इति मम सङ्कल्पः।
मेना– पुत्रि ! त्वमेव मे जीवनाभिलाषः ।
पार्वती– सत्यम्। परं मम मनः लक्ष्यं प्राप्तुम् आकुलितं वर्तते । सिद्धिं प्राप्य पुनः तवैव शरणम् आगमिष्यामि । अद्यैव विजयया साकं गौरीशिखरं गच्छामि।

(अ) एकपदेन उत्तरत- (केवलं प्रश्नमेकम्) 1×1 = 1

i.) मनीषिताः देवताः कुत्र सन्ति?
उत्तरम्: गृहे

ii.) पार्वत्याः शरीरं कथं वर्तते?
उत्तरम्: सुकोमलम्

(ब) पूर्णवाक्येन उत्तरत– (केवलं प्रश्नमेकम्) 1×2 = 2

i.) पार्वत्याः कः सङ्कल्पः?
उत्तरम्: पार्वत्याः सङ्कल्पः अस्ति यत् अहं तपः एव चरिष्यामि।

ii.) पार्वत्याः मनः किं प्राप्तुम् आकुलितं वर्तते?
उत्तरम्: पार्वत्याः मनः लक्ष्यं प्राप्तुम् आकुलितं वर्तते।

(स) यथानिर्देशम् उत्तरत- (केवलं प्रश्नद्वयम्) 2×1 = 2

i.) पार्वत्याः मनः किं प्राप्तुम् आकुलितं वर्तते? अत्र पार्वत्याः पदे का विभक्तिः?
क) पञ्चमी ख) प्रथमा ग) षष्ठी घ) सप्तमी
उत्तरम्: ग) षष्ठी

ii.) अस्मिन् नाट्यांशे अनृतम् पदस्य किं विलोमपदं प्रयुक्तम्?
क) इमाः ख) पार्वती ग) सत्यम् घ) मेना
उत्तरम्: ग) सत्यम्

iii.) अहं तपः एव चरिष्यामि अस्मिन् वाक्ये किम् अव्ययपदं प्रयुक्तम् ?
क) अहं ख) तपः ग) एव घ) चरिष्यामि
उत्तरम्: ग) एव

12. मञ्जूषातः समुचितानि पदानि चित्वा अधोलिखितस्य श्लोकस्य अन्वयं पूरयत- 3×1 = 3

पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम्।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते।।

अर्थः – पृथिव्यां त्रीणि रत्नानि जलम् अन्नं सुभाषितम् सन्ति ।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते।

मञ्जूषा
रत्नानि, मूढैः, अन्नं,

उत्तरम्:
अर्थः – पृथिव्यां त्रीणि रत्नानि जलम् अन्नं सुभाषितम् सन्ति ।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते।

प्र. 13 प्रश्नपत्रात् अतिरिच्य स्वपाठ्यपुस्तकात् स्मरणाधारेण किमपि श्लोकद्वयं संस्कृतेन लिखत। 2×2=4

उत्तरम्:
i.) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति॥

ii.) उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥

CLICK HERE TO DOWNLOAD QUESTION PAPER –CLICK


Leave a comment